GP:रत्नकरंड श्रावकाचार - श्लोक 11 - टीका
From जैनकोष
रुचि: सम्यग्दर्शनम्। असञ्ज्ञया (यहां असंशया शब्द होना चाहिये ।) निशङ्कितत्वधर्मोपेता । किंविशिष्टा सती ? अकम्पा निश्चला । किंवत् ? आयसाम्भोवत् अयसि भवमायसं तच्च तदम्भश्च पानीयं तदिव तद्वत्खड्गादिगतपानीयवदित्यर्थ: क्व साकम्पेत्याह -- सन्मार्गे संसारसमुद्रोत्तरणार्थं सद्भिर्मृग्यते अन्वेष्यत इति सन्मार्गम् आप्तागमगुरुप्रवाहस्तस्मिन्केनोल्लेखेनेत्याह- इदमेवाप्तागमतपस्विलक्षणं तत्त्वम् । ईदृशमेव उक्तप्रकारेणैव लक्षणेन लक्षितम् । नान्यत् एतस्माद्भिन्नं न । न चान्यथा उक्ततल्लक्षणादन्यथा परपरिकल्पितलक्षणेन लक्षितं, न च नैव तद्घटते इत्येवमुल्लेखेन ॥११॥