GP:रत्नकरंड श्रावकाचार - श्लोक 122 - टीका
From जैनकोष
आर्या गणधरदेवादय: सल्लेखनामाहु: । किं तत् ? तनुविमोचनं शरीरत्याग: । कस्मिन् सति ? उपसर्गे तिर्यङ्मनुष्यदेवाचेतनकृते । नि:प्रतीकारे प्रतीकारागोचरे । एतच्च विशेषणं दुर्भिक्षजरारुजानां प्रत्येकं सम्बन्धनीयम् । किमर्थं तद्विमोचनम् ? धर्माय रत्नत्रयाराधनार्थं न पुन: परस्य ब्रह्महत्याद्यर्थम् ॥