GP:रत्नकरंड श्रावकाचार - श्लोक 124-125 - टीका
From जैनकोष
स्वयं क्षान्त्वा । प्रियैर्वचनै: स्वजनं परिजनमपि क्षमयेत् । किं कृत्वा ? अपहाय त्यक्त्वा । कम् ? स्नेहमुपकारके वस्तुनि प्रीत्यनुबन्धम् । वैरमनुपकारकं द्वेषानुबन्धम् । सङ्गं पुत्रस्त्र्यादिकम् । ममेदमहमस्येत्यादिसम्बन्धं परिग्रहं बाह्याभ्यन्तरम् । एतत्सर्वमपहाय शुद्धमना निर्मलचित्त: सन् क्षमयेत् । तथा आरोपयेत् स्थापयेदात्मनि । किं तत् ? महाव्रतं कथम्भूतम् । आमरणस्थायिमरणपर्यन्तं नि:शेषं च पञ्चप्रकारमपि । किं कृत्वा ? आलोच्य । किं तत् ? एनो दोषम् । किं तत् ? सर्वं कृतकारितानुमतं च । स्वयं हि कृतं हिंसादिदोषं, कारितं हेतुभावेन, अनुमतमन्येन क्रियमाणं मनसा श£ाघितम् । एतत्सर्वमेनो निव्र्याजं दशालोचनादोषवर्जितं यथा भवत्येवमालोचयेत् । दश हि आलोचनादोषा भवन्ति । तदुक्तम् -;;आकम्पिय अणुमाणिय जं दि_ं बादरं च सुहमं च;;छन्नं सद्दाउलयं बहुजणमव्वत्त तस्सेवी ॥ इति