GP:रत्नकरंड श्रावकाचार - श्लोक 126 - टीका
From जैनकोष
प्रसाद्यं प्रसन्नं कार्यम् । किं तत् ? मन: । कै: ? श्रुतैरागमवाक्यै: । कथम्भूतै: ? अमृतै: अमृतोपमै: संसारदु:खसन्तापापनोदकैरित्यर्थ: । किं कृत्वा ? हित्वा । किं तदित्याह- शोकमित्यादि । शोकम्- इष्टवियोगे तद्गुणशोचनं, भयं- क्षुत्पिपासादिपीडानिमित्तमिहलोकादिभयं वा, अवसादं विषादं खेदं वा, क्लेदं स्नेहं, कालुष्यं क्वचिद्विषये रागद्वेषपरिणतिम् । न केवलं प्रागुक्तमेव अपि तु अरतिमपि अप्रसत्तिमपि । न केवलमेतदेव कृत्वा किन्तु उदीर्य च प्रकाश्य च । कम् ? सत्त्वोत्साहं सल्लेखनाकरणेऽकातरत्वम् ॥