GP:रत्नकरंड श्रावकाचार - श्लोक 128 - टीका
From जैनकोष
खरपानहापनामपि कृत्वा । कथम् ? शक्त्या स्वशक्तिमनतिक्रमेण स्तोकस्तोकतरादिरूपम् । पश्चादुपवासं कृत्वा तनुमपि त्यजेत् । कथम् ? सर्वयत्नेन सर्वस्मिन् व्रतसंयमचारित्रध्यानधारणादौ यत्नस्तात्पर्यं तेन । किंविशिष्ट: सन् ? पञ्चनमस्कारमना: पञ्चनमस्काराहितचित्त: ॥