GP:रत्नकरंड श्रावकाचार - श्लोक 12 - टीका
From जैनकोष
अनाकाङ्क्षणास्मृता निष्काङ्क्षितत्वंनिश्चितम् । कासौ ? श्रद्धा । कथम्भूता ? अनास्था नविद्यतेआस्थाशाश्वतबुद्धिर्यस्याम् । अथवानआस्थाअनास्थात । स्यान्तयावाश्रद्धाअनास्थाश्रद्धासाचाप्यनाकाङ्क्षणेतिस्मृता । क्वअनास्थाऽरुचि: ? सुखे वैषयिके । कथम्भूते ? कर्मपरवशे कर्मायत्ते । तथा सान्ते अन्तेनविनाशेनसहवर्तमानेतथा दु:खैरन्तरितोदये दु:खैर्मानसशारीरैरन्तरितउदय: प्रादुर्भावोयस्य । तथा पापबीजे पापोत्पत्तिकारणे ॥१२॥