GP:रत्नकरंड श्रावकाचार - श्लोक 132 - टीका
From जैनकोष
नि:श्रेयसमावसन्ति नि:श्रेयसे तिष्ठन्ति । के ते इत्याह- विद्येत्यादि । विद्या केवलज्ञानं, दर्शनं केवलदर्शनं, शक्तिरनन्तवीर्यं, स्वास्थ्यं परमोदासीनता, प्रह्लादोऽनन्तसौख्यं, तृप्तिर्विषयानाकाङ्क्षा, शुद्धिद्र्रव्यभावस्वरूपकर्ममलरहितता, एता युञ्जन्ति आत्मसम्बद्धा: कुर्वन्ति ये ते तथोक्ता: । तथा निरतिशया अतिशयाद्विद्यादिगुणहीनाधिकभावान्निष्क्रान्ता: । तथा निरवधयो नियतकालावधिरहिता: । इत्थम्भूता ये ते नि:श्रेयसमावसन्ति । सुखं सुखरूपं नि:श्रेयसम् । अथवा सुखं यथा भवत्येवं ते तत्रावसन्ति ॥