GP:रत्नकरंड श्रावकाचार - श्लोक 133 - टीका
From जैनकोष
न लक्ष्या न प्रमाणपरिच्छेद्या । कासौ ? विक्रिया विकार: स्वरूपान्यथाभाव: । केषाम् ? शिवानां सिद्धानाम् । कदा ? कल्पशतेऽपि गते काले । तर्हि उत्पातवशात्तेषां विक्रिया स्यादित्याह- उत्पातोऽपि यदि स्यात् तथापि न तेषां विक्रिया लक्ष्या । कथाम्भूत: उत्पात: ? त्रिलोकसम्भ्रान्तिकरणपटु: त्रिलोकस्य सम्भ्रान्तिरावत्र्तस्तत्करणे पटु: समर्थ: ॥