GP:रत्नकरंड श्रावकाचार - श्लोक 135 - टीका
From जैनकोष
अभ्युदयम् इन्द्रादिपदावाप्तिलक्षणम् । फलति अभ्युदयफलं ददाति । कोऽसौ ? सद्धर्मसल्लेखनानुष्ठानोपार्जितं विशिष्टं पुण्यम् । कथम्भूतमभ्युदयम् ? अद्भुतं साश्चर्यम् । कथम्भूतं तदद्भुतम् ? अतिशयितभुवनं यत: । कै: कृत्वा ? पूजार्थाज्ञैश्वर्यै: ऐश्वर्यशब्द: पूजार्थाज्ञानां प्रत्येकं सम्बध्यते । किंविशिष्टैरेतैरित्याह- बलेत्यादि । बलं सामथ्र्यं परिजन: परिवार: कामभोगौ प्रसिद्धौ । एतद्भूयिष्ठा अतिशयेन बहवो येषु । एतैरुपलक्षितै: पूजादिभिरतिशयितभुवनमित्यर्थ: ॥