GP:रत्नकरंड श्रावकाचार - श्लोक 136 - टीका
From जैनकोष
देशितानि प्रतिपादितानि। कानि? श्रावकपदानि श्रावकगुणस्थानानि श्रावकप्रतिमा इत्यर्थ: । कति ? एकादश । कै: ? देवैस्तीर्थङ्करै: । येषु श्रावकपदेषु खलु स्फुटं सन्तिष्ठन्तेऽवस्थितिं कुर्वन्ति । के ते ? स्वगुणा: स्वकीयगुणस्थानसम्बद्धा: गुणा: । कै: सह ? पूर्वगुणै: पूर्वगुणस्थानवर्तिगुणै: सह । कथम्भूता: ? क्रमविवृद्धा: सम्यग्दर्शनमादिं कृत्वा एकादशपर्यन्तमेकोत्तरवृद्ध्या क्रमेण विशेषेण वर्धमाना: ॥