GP:रत्नकरंड श्रावकाचार - श्लोक 137 - टीका
From जैनकोष
दर्शनमस्यास्तीति दर्शनिको दर्शनिकश्रावको भवति । किंविशिष्ट:? सम्यग्दर्शनशुद्ध: सम्यग्दर्शनं शुद्धं निरतिचारं यस्य असंयतसम्यग्दृष्टे: । कोऽस्य विशेष इत्यत्राह- संसारशरीरभोगनिर्विण्ण इत्यनेनास्य लेशतो व्रतांशसम्भवात्ततो विशेष: प्रतिपादित: । एतदेवाह- तत्त्वपथगृह्या: तत्त्वानां व्रतानां पन्थानो मार्गा मद्यादिनिवृत्तिलक्षणा अष्टमूलगुणास्ते गृह्य: पक्षा यस्य । पञ्चगुरुचरणशरण: पञ्चगुरव: पञ्चपरमेष्ठिनस्तेषां चरणा: शरणमपायपरिरक्षणोपायो यस्य ॥