GP:रत्नकरंड श्रावकाचार - श्लोक 147 - टीका
From जैनकोष
उत्कृष्टउद्दिष्टविरतिरलक्षणैकादशगुणस्थानयुक्त: श्रावकोभवति।कथम्भूत: ? चेलखण्डधर: कौपीनमात्रवस्त्रखण्डधारक: आर्यलिङ्गधारीत्यर्थ: । तथाभैक्ष्याशनोभिक्षाणांसमूहोभैक्ष्यंतदश्रातीतिभैक्ष्याशन: । किंकुर्वन्? तपस्यन्तप: कुर्वन् । किंकृत्वा ? परिगृह्यगृहीत्वा । कानि ? व्रतानि । क्व ? गुरूपकण्ठेगुरुसमीपे । किंकृत्वा ? इत्वागत्वा । किंतत् ? मुनिवनंमुन्याश्रमं । कस्मात् ? गृहत:॥२६॥