GP:रत्नकरंड श्रावकाचार - श्लोक 14 - टीका
From जैनकोष
अमूढादृष्टिरपमूढत्वगुणविशिष्टंसम्यग्दर्शनम् । का ? असम्मति: नविद्यतेमनसासम्मति: श्रेय: साधनतयासम्मननंयत्रदृष्टौ । क्व ? कापथे कुत्सितमार्गेमिथ्यादर्शनादौ । कथम्भूते ? पथि मार्गे । केषां ? दु:खानाम् । नकेवलन्तत्रैवासम्मतिरपितु कापथस्थेऽपि मिथ्यादर्शनाद्याधारेऽपिजीवे । तथा असम्पृक्ति: नविद्यतेसम्पृक्ति: कायेननखच्छोटिकादिनाअङ्गुलिचालनेनशिरोधूननेनवाप्रशंसायत्र । अनुत्कीर्ति: नविद्यतेउत्कीर्तिरुत्कीर्तनंवाचासंस्तवनंयत्र।मनोवाक्कायैर्मिथ्यादर्शनादीनान्तद्वताञ्चाप्रशंसाकरणमूढंसम्यग्दर्शनमित्यर्थ:॥१४॥