GP:रत्नकरंड श्रावकाचार - श्लोक 18 - टीका
From जैनकोष
प्रभावना स्यात् । कासौ ? जिनशासनमाहात्म्यप्रकाश: । जिनशासनस्य-माहात्म्य-प्रकाशस्तुतपोज्ञानाद्यतिशयप्रकटीकरणम् । कथम् ? यथायथं स्नपन-दान-पूजा-विधान-तपोमन्त्र-तन्त्रादिविषये-आत्मशक्त्यनतिक्रमेण । किङ्कृत्वा ? अपाकृत्य निराकृत्य । काम् ? अज्ञानतिमिरव्याप्तिं जिनमतात्परेषांयत्स्नपनदानादिविषयेऽज्ञानमेवतिमिरमन्धकारन्तस्यव्याप्तिम्प्रसरम् ॥१८॥