GP:रत्नकरंड श्रावकाचार - श्लोक 19-20 - टीका
From जैनकोष
क्रमवाची, सम्यग्दर्शनस्य हि नि:शङ्कितत्वादीन्यष्टाङ्गान्युक्तानि तेषु मध्ये प्रथमे नि:शङ्कितत्वेऽङ्गस्वरूपे तावल्लक्ष्यतां दृष्टान्ततां गतोऽञ्जचोर: स्मृतो निश्चित: । द्वितीयेऽङ्गे निष्काङ्क्षितत्वे ततोऽञ्जनचोरादन्यानन्तमतिर्लक्ष्यतां गता मता । तृतीयेऽङ्गे निर्विचिकित्सत्वे उद्दायनो लक्ष्यतां गतो मत: । तुरीये चतुर्थेऽङ्के अमूढदृष्टित्वे रेवती लक्ष्यतां गता मता । ततस्तेभ्यश्चतुर्भ्योऽन्यो जिनेन्द्रभक्तश्रेष्ठी उपगूहने लक्ष्यतां गतो मत: । ततो जिनेन्द्रभक्तात् परो वारिषेण: स्थितीकरणे लक्ष्यतां गतो मत: । विष्णुश्च विष्णुकुमारो व्रजनामा च वज्रकुमार: शेषयोर्वात्सल्य-प्रभावनयोर्लक्ष्यतां गतौ मतौ । गता इति बहुवचननिर्देशो दृष्टान्तभूतोक्तात्मव्यक्तिबहुत्वापेक्षया ॥१९-२०॥
तत्र नि:शङ्कितत्वेऽञ्जनचोरो दृष्टान्ततां गतोऽस्य कथा-
यथा- धन्वन्तरविश्वलोमौ सुकृत कर्मवशादमितप्रभविद्युत्प्रभदेवौ संजातौ चान्योन्यस्य धर्मपरीक्षणार्थमत्रायातौ। ततो यमदग्रिस्ताभ्यां तपसश्चालित:। मगधदेशे राजगृहनगरे जिनदत्तश्रेष्ठी कृतोपवास: कृष्णचतुर्दश्यां रात्रौ श्मशाने कायोत्सर्गेण स्थितो दृष्ट:। ततोऽमितप्रभदेवेनोक्तं दूरे तिष्ठन्तु मदीया मुनयोऽमुं गृहस्थं ध्यानाच्चालयेति, ततो विद्युत्प्रभदेवेनानेकधा कृतोपसर्गोपि न चलितो ध्यानात्। तत: प्रभाते मायामुपसंहृत्य प्रशस्य चाकाशगामिनी विद्या दत्ता तस्मै, कथितं च तवेयं सिद्धाऽन्यस्य च पञ्चनमस्कारार्चनाराधनविधिना सेत्स्यतीति। सोमदत्तपुष्पवटुकेन चैकदा जिनदत्तश्रेष्ठी पृष्ठ:- क्व भवान् प्रातरेवोत्थाय व्रजतीति। तेनोक्तमकृत्रिमचैत्यालयवन्दनाभक्तिं कर्तुं व्रजामि। ममेत्थं विद्यालाभ: संजात इति कथिते तेनोक्तं मम विद्यां देहि येन त्वया सह पुष्पादिकं गृहीत्वा वन्दनाभक्तिं करोमीति। तत: श्रेष्ठिना तस्योपदेशो दत्त:। तेन च कृष्णचतुर्दश्यां श्मशाने वटवृक्षपूर्वशाखायामष्टोत्तरशतपादं दर्भशिक्यं बन्धयित्वा तस्य तले तीक्ष्णसर्वशस्त्राण्यूध्र्वमुखानि धृत्वा गन्धपुष्पादिकं दत्वा शिक्यमध्ये प्रविश्य षष्ठोपवासेन पञ्चनमस्कारानुच्चार्य छुरिकयैकैकं पादं छिन्दताऽधो जाज्वल्यमानप्रहरणसमूहमालोक्य भीतेन तेन सञ्चिन्तितं- यदि श्रेष्ठिनो वचनमसत्यं भवति तदा मरणं भवतीति शङ्कितमना वारं वारं चटनोत्तरणं करोति। एतस्मिन् प्रस्तावे प्रजापालस्य राज्ञ: कनकाराज्ञीहारं दृष्ट्वाञ्जनसुन्दर्या विलासिन्या रात्रावागतोञ्जनचोरो भणित:। यदि मे कनकाराज्ञ्याहारं ददासि तदा भर्ता त्वं, नान्यथेति। ततो गत्वा रात्रौ हारं चोरयित्वाऽञ्जनचोर आगच्छन् हारोद्योतेन ज्ञातोऽङ्गरक्षै: कोट्टपालैश्च ध्रियमाणो हारं त्यक्त्वा प्रणश्य गत: वटतले वटुकं दृष्ट्वा तस्मान्मन्त्रं गृहीत्वा नि:शङ्कितेन तेन विधिनैकवारेण सर्वशिक्यं छिन्नं शस्त्रोपरि पतित: सिद्ध्या विद्यया भणितं- ममादेशं देहीति। तेनोक्तं- जिनदत्तश्रेष्ठिपाश्र्वे मां नयेति। तत: सुदर्शनमेरुचैत्यालये जिनदत्तस्याग्रे नीत्वा स्थित:। पूर्ववृत्तान्तं कथयित्वा तेन भणितं- यथेयं सिद्धा भवदुपदेशेन तथा परलोकसिद्धावप्युपदेहीति। ततश्चारणमुनिसन्निधौ तपो गृहीत्वा कैलासे केवलमुत्पाद्य मोक्षं गत:॥ १॥
नि:कांक्षितत्वेऽनन्तमतीदृष्टान्तोऽस्या: कथा।
अङ्गदेशे चम्पानगर्यां राजा वसुवर्धनो राज्ञी लक्ष्मीमती श्रेष्ठी प्रियदत्तस्तद्भार्या अङ्गवती पुत्र्यनन्तमती। नन्दीश्वराष्टम्यां श्रेष्ठिना धर्मकीत्र्याचार्यपादमूलेऽष्टदिनानि ब्रह्मचर्यं गृहीतम्। क्रीडयाऽनन्तमती च ग्राहिता। अन्यदा सम्प्रदानकालेऽनन्तमत्योक्तं- तात! मम त्वया ब्रह्मचर्यं दापितमत: किं विवाहेन? श्रेष्ठिनोक्तं क्रीडया मया ते ब्रह्मचर्यं दापितम्। ननु तात! धर्मे व्रते का क्रीडा? ननु पुत्रि! नन्दीश्वराष्टदिनान्येव व्रतं तव न सर्वदा दत्तम्। सोवाच ननु तात! तथा भट्टारकैरविवक्षितत्वादिति। इह जन्मनि परिणयने मम निवृत्तिरस्तीत्युक्त्वा सकलकलाविज्ञानशिक्षां कुर्वन्ती स्थिता। यौवनभरे चैत्रे निजोद्याने आन्दोलयन्ती विजयार्धं दक्षिणश्रेणिकिन्नरपुरविद्याधरराजेन कुण्डलमण्डितनाम्रा सुकेशीनिजभार्यया सह गगनतले गच्छता दृष्टा। किमनया विना जीवितेनेति संचिन्त्य भार्यां गृहे धृत्वा शीघ्रमागत्य विलपन्ती तेन सा नीता। आकाशे गच्छता भार्यां दृष्ट्वा भीतेन पर्णलघुविद्या: समप्र्य महाटव्यां मुक्ता। तत्र च तां रुदन्तीमालोक्य भीमनाम्रा भिल्लराजेन निजपल्लिकायां नीत्वा प्रधानराज्ञीपदं तव ददामि मामिच्छेति भणित्वा रात्रावनिच्छतीं भोक्तुमारब्धा। व्रतमाहात्म्येन वनदेवतया तस्य ताडनाद्युपसर्ग: कृत:। देवता काचिदियमिति भीतेन तेनावासितसार्थपुष्पकनाम्र: सार्थवाहस्य समर्पिता। सार्थवाहो लोभं दर्शयित्वा परिणेतुकामो न तया वाञ्छित:। तेन चानीयायोध्याया कामसेनाकुट्टिन्या: समर्पिता, कथमपि वेश्या न जाता। ततस्तया सिंहराजस्य राज्ञो दर्शिता तेन च रात्रौ हठात् सेवितुमारब्ध। नगरदेवतया तद्व्रतमाहात्म्येन तस्योपसर्ग: कृत:। तेन च भीतेन गृहान्नि:सारिता। रुदती सखेदं सा कमलश्रीक्षांतिकया श्राविकेति मत्वाऽतिगौरवेण धृता। अथानन्तमतीशोकविस्मरणार्थं प्रियदत्तश्रेष्ठी बहुसहायो वन्दनाभक्तिं कुर्वन्नयोध्यायां गतो निजश्यालकजिनदत्तश्रेष्ठिनो गृहे संध्यासमये प्रविष्टो रात्रौ पुत्री हरणवार्तां कथितवान्। प्रभाते तस्मिन् वन्दनाभक्तिं कर्तुं गते अतिगौरवितप्राघूर्णकनिमित्तं रसवतीं कर्तुं गृहे चतुष्कं दातुं कुशला कमलश्रीक्षान्तिका श्राविका जिनदत्तभार्यया आकारिता। सा च सर्वं कृत्वा वसतिकां गता। वन्दनाभक्तिं कृत्वा आगतेन प्रियदत्तश्रेष्ठिना चतुष्कमालोक्यानन्तमतीं स्मृत्वा गह्वरितहृदयेन गद्गदितवचनेनाश्रुपातं कुर्वता भणितं- यया गृहमण्डनं कृतं तां मे दर्शयेति। तत: सा आनीता तयोश्च मेलापके जाते जिनदत्तश्रेष्ठिना च महोत्सव: कृत:। अनन्तमत्या चोक्तं तात! इदानीं मे तपो दापय, दृष्टमेकस्मिन्नेव भवे संसारवैचित्र्यमिति। तत: कमलश्रीक्षांतिकापाश्र्वे तपो गृहीत्वा बहुना कालेन विधिना मृत्वा तदात्मा सहस्रारकल्पे देवो जात: ॥२॥
निर्विचिकित्सिते उद्दायनो दृष्टान्तोऽस्य कथा-
एकदा सौधर्मेन्द्रेण निजसभायां सम्यक्त्वगुणं व्यावर्णयता भरते वत्सदेशे रौरकपुरे उद्दायनमहाराजस्य निर्विचिकित्सितगुण: प्रशंसितस्तं परीक्षितुं वासवदेव उदुम्बरकुष्ठकुथितं मुनिरूपं विकृत्य तस्यैव हस्तेन विधिना स्थित्वा सर्वमाहारं जलं च मायया भक्षयित्वातिदुर्गन्धं बहुवमनं कृतवान्। दुर्गन्धभयान्नष्टे परिजने प्रतीच्छतो राज्ञस्तद्देव्याश्च प्रभावत्या उपरि छदितं, हाहा! विरुद्ध आहारो दत्तो मयेत्यात्मानं निन्दयतस्तं च प्रक्षालयतो मायां परिहृत्य प्रकटीकृत्य पूर्ववृत्तान्तं कथयित्वा प्रशस्य च तं स्वर्गं गत:। उद्दायनमहाराजो वर्धमानस्वामिपादमूले तपो गृहीत्वा मुक्तिं गत:। प्रभावती च तपसा ब्रह्मस्वर्गे देवो बभूव ॥३॥
अमूढदृष्टित्वे रेवतीदृष्टान्तोऽस्य कथा-
विजयार्धदक्षिणश्रेण्यां मेघकूटे नगरे राजा चन्द्रप्रभ:। चन्द्रशेखरपुत्राय राज्यं दत्वा परोपकारार्थं वन्दनाभक्त्यर्थं च कियतीविद्या दधानो दक्षिणमथुरायां गत्वा गुप्ताचार्यसमीपे क्षुल्लको जात:। तेनैकदा वन्दनाभक्त्यर्थमुत्तरमथुरायां चलितेन गुप्ताचार्य: पृष्ट: किं कस्य कथ्यते? भगवतोक्तं सुव्रतमुनेर्वन्दना वरुणराजमहाराज्ञीरेवत्या आशीर्वादश्च कथनीय:। त्रिपृष्ठेनापि तेन एतावदेवोक्तं। तत: क्षुल्लकेनोक्तं। भव्यसेनाचार्यस्यैकादशांगधारिणोऽन्येषां च नामापि भगवन् न गृöाति तत्र किंचित्कारणं भविष्यतीति सम्प्रधार्य तत्र गत्वा सुव्रतमुनेर्भट्टारकीयां वन्दनां कथयित्वा तदीयं च विशिष्टं वात्सल्यं दृष्ट्वा भव्यसेनवसतिकां गत:। तत्र गतस्य च भव्यसेनेन सम्भाषणमपि न कृतम्। कुण्डिकां गृहीत्वा भव्यसेनेन सह बहिर्भूमिं गत्वा विकुर्वणया हरितकोमलतृणाङ्कुरच्छन्नो मार्गोऽग्रे दर्शित:। तं दृष्ट्वा ‘आगमे किलैते जीवा: कथ्यन्ते’ इति भणित्वा तत्रारुचिं कृत्वा तृणोपरि गत: शौचसमये कुण्डिकायां जलं नास्ति तथा विकृतिश्च क्वापि न दृश्यतेऽतोऽत्र स्वच्छसरोवरे प्रशस्तमृत्तिकया शौचं कृतवान्। ततस्तं मिथ्यादृष्टिं ज्ञात्वा भव्यसेनस्याभव्यसेननाम कृतम्। ततोऽन्यस्मिन् दिने पूर्वस्यां दिशि पद्यासनस्थं चतुर्मुखं यज्ञोपवीताद्युपेतं देवासुरवन्द्यमानं ब्रह्मरूपं दर्शितम्। तत्र राजादयो भव्यसेनादयश्च जना गता:। रैवती तु कोऽयं ब्रह्मनाम देव इति भणित्वा लोकै: प्रेर्यमाणापि न गता। एवं दक्षिणस्यां दिशि गरुडारुढं चतुर्भुजं च गदाशङ्खादिधारकं वासुदेवरूपम्। पश्चिमायां दिशि वृषभारूढं सार्धचन्द्रजटाजूटगौरीगणोपेतं शङ्कररूपम्। उत्तरस्यां दिशि समवसरणमध्ये प्रातिहार्याष्टकोपेतं सुरनरविद्याधरमुनिवृन्दवन्द्यमानं पर्यङ्कस्थितं तीर्थङ्करदेवरूपं दर्शितम्। तत्र च सर्वलोका गता:। रेवती तु लोकै: प्रेर्यमाणापि न गता नवैव वासुदेवा:, एकादशैव रुद्रा:, चतुर्विंशतिरेव तीर्थङ्करा जिनागमे कथिता:। ते चातीता: कोऽप्ययं मायावीत्युक्ता स्थिता। अन्यदिने चर्यावेलायां व्याधिक्षीणशरीरक्षुल्लकरूपेण रेवतीगृहप्रतोलीसमीपमार्गे मायामूच्र्छया पतित:। रेवत्या तमाकण्र्य भक्त्योत्थाय नीत्वोपचारं कृत्वा पथ्यं कारयितुमारब्ध:। तेन च सर्वमाहारं भुक्त्वा दुर्गन्धवमनं कृतम्। तदपनीय हा! विरूपकं मयाऽपथ्यं दत्तमिति रेवत्या वचनमाकण्र्य तोषान्मायामुपसंहृत्य तां देवीं वन्दयित्वा गुरोराशीर्वादं पूर्ववृत्तान्तं कथयित्वा लोकमध्ये तु अमूढदृष्टित्वं तस्या उच्चै: प्रशस्य स्वस्थाने गत:। वरुणो राजा शिवकीर्तिपुत्राय राज्यं दत्वा तपो गृहीत्वा माहेन्द्रस्वर्गे देवो जात:। रेवत्यपि तप: कृत्वा ब्रह्मस्वर्गे देवो बभूव ॥४॥
उपगूहने जिनेन्द्रभक्तो दृष्टान्तोऽस्य कथा-
सुराष्ट्रदेशे पाटलिपुत्रनगरे राजा यशोधरो राज्ञी सुसीमा पुत्र: सुवीर: सप्तव्यसनाभिभूतस्तथाभूततस्करपुरुषसेवित:। पूर्वदेशे गौडविषये ताम्रलिप्तनगर्यां जिनेन्द्रभक्तश्रेष्ठिन: सप्ततलप्रासादोपरि बहुरक्षकोपयुक्तपाश्र्वनाथप्रतिमाछत्रत्रयोपरि विशिष्टतरानघ्र्यवैडूर्यमणिं पारम्पर्येणाकण्र्य लोभात्तेन सुवीरेण निजपुरुषा: पृष्टा: तं मणिं किं कोऽप्यानेतुं शक्तोऽस्तीति। इन्द्रमुकुटमणिमप्यहमानयामीति गलगर्जितं कृत्वा सूर्यनामा चौर: कपटेन क्षुल्लको भूत्वा अतिकायक्लेशेन ग्रामनगरक्षोभं कुर्वाण: क्रमेण ताम्रलिप्तनगरीं गत:। तमाकण्र्य गत्वाऽलोक्य वन्दित्वा सम्भाष्य प्रशस्य च क्षुभितेन जिनेन्द्रभक्तश्रेष्ठिना नीत्वा पाश्र्वनाथदेवं दर्शयित्वा मायया अनिच्छन्नपि स तत्र मणिरक्षको धृत:। एकदा क्षुल्लकं पृष्ट्वा श्रेष्ठी समुद्रयात्रायां चलितो नगराद्बहिर्निर्गत्य स्थित:। स चौरक्षुल्लको गृहजनमुपकरणनयनव्यग्रं ज्ञात्वा अर्धरात्रे तं मणिं गृहीत्वा चलित:। मणितेजसा मार्गे कोट्टपालैर्दृष्टो धर्तुमारब्ध:। तेभ्य: पलायितुमसमर्थ: श्रेष्ठिन एव शरणं प्रविष्टो मां रक्ष रक्षेति चोक्तवान्। कोट्टपालानां कलकलमाकण्र्य पर्यालोच्य तं चौरं ज्ञात्वा दर्शनोपहासप्रच्छादनार्थं भणितं श्रेष्ठिना मद्वचनेन रत्नमनेनानीतमिति विरूपकभवद्भि: कृतं यदस्य महातपस्विनश्चौरोद्घोषणा कृता। ततस्ते तस्य वचनं प्रमाणं कृत्वा गता:। स च श्रेष्ठिना रात्रौ निर्घाटित:। एवमन्येनापि सम्यग्दृष्टिना असमर्थाज्ञानपुरुषादागतदर्शनदोषस्य प्रच्छादनं कत्र्तव्यम् ॥५॥
स्थितिकरणे वारिषेणो दृष्टान्तोऽस्य कथा-
मगधदेशे राजगृहनगरे राजा श्रेणिको राज्ञी चेलिनी पुत्री वारिषेण: उत्तमश्रावक: चतुर्दश्यां रात्रौ कृतोपवास: श्मसाने कायोत्सर्गेण स्थित:। तस्मिन्नेव दिने उद्यानिकायां गतया मगधसुन्दरीविलासिन्या श्रीकीर्तिश्रेष्ठिन्या परिहितो दिव्यो हारो दृष्ट:। ततस्तं दृष्ट्वा किमनेनालङ्कारेण विना जीवितेनेति सञ्चिन्त्य शय्यायां पतित्वा सा स्थिता। रात्रौ समागतेन तदासक्तेन विद्युच्चरेणोक्तं प्रिये! किमेवं स्थितासीति। तयोक्तं श्रीकीर्तिश्रेष्ठिन्या हारं यदि मे ददासि तदा जीवामि त्वं च मे भर्ता नान्यथेति श्रुत्वा तां समुदीर्य अर्धरात्रे गत्वा निजकौशलेन तं हारं चोरयित्वा निर्गत:। तदुद्योतेन चौरोऽयमिति ज्ञात्वा गृहरक्षकै: कोट्टपालैश्च ध्रियमाणो पलायितुमसमर्थो वारिषेणकुमारस्याग्रे तं हारं धृत्वाऽदृश्यो भूत्वा स्थित: कोट्टपालैश्च तं तथालोक्य श्रेणिकस्य कथितं देव! वारिषेणश्च चौर इति। तं श्रुत्वा तेनोक्तं मूर्खस्यास्य मस्तकं गृह्यतामिति। मातङ्गेन योऽसि: शिरोग्रहणार्थं बाहित: स कठे तस्य पुष्पमाला बभूव। तमतिशयमाकण्र्य श्रेणिकेन गत्वा वारिषेण: क्षमां कारित:। लब्धाभयप्रदानेन विद्युच्चरचौरेण राज्ञो निजवृत्तान्ते कथिते वारिषेणो गृहे नेतुमारब्ध:। तेन चोक्तं मया पाणिपात्रे भोक्तव्यमिति। ततोऽसौ सूरसेनमुनिसमीपे मुनिरभूत। एकदा राजगृहसमीपे पलाशकूटग्रामे चर्यायां स प्रविष्ट:। तत्र श्रेणिकस्य योऽग्रिभूतिमंत्री तत्पुत्रेण पुष्पडालेन स्थापितं, चर्यां कारयित्वा स सोमिल्लां निजभार्यां पृष्ट्वा प्रभुपुत्रत्वाद् बालसखित्वाच्च स्तोकं मार्गानुव्रजनं कर्तुं वारिषेणेन सह निर्गत:। आत्मनो व्याघुटनार्थं क्षीरवृक्षादिकं दर्शयन् मुहुर्मुहुर्वन्दनां कुर्वन् हस्ते धृत्वा नीतो विशिष्टधर्मश्रवणं कृत्वा वैराग्यं नीत्वा तपो ग्राहितोऽपि सोमिल्लां न विस्मरति। तौ द्वावपि द्वादशवर्षाणि तीर्थयात्रायां कृत्वा वर्धमानस्वामिसमवसरणं गतौ। तत्र वर्धमानस्वामिन: पृथिव्याश्च सम्बन्धिगीतं देवैर्गीयमानं पुष्पडालेन श्रुतम्। यथा-
'मइलकुचेली दुम्मनी नहिं पविसिएण
कह जीवेसइ धणिय, घर उज्झंते हियएण॥'
एतदात्मन: सोमिल्लायाश्च संयोज्य उत्कण्ठितश्चलित:। स वारिषेणेन ज्ञात्वा स्थिरीकरणार्थं निजनगरं नीतम्। चेलिन्या तौ दृष्ट्वा वारिषेण: किं चारित्राच्चलित: आगच्छतीति सञ्चिन्त्य परीक्षणार्थं सरागवीतरागे द्वे आसने दत्ते। वीतरागासने वारिषेणेनोपविश्योक्तं मदीयमन्त:पुरमानीयताम्। ततश्चेलिन्या महादेव्या द्वात्रिंशद्भार्या: सालङ्कारा आनीता:। तत: पुष्पडालो वारिषेणेन भणित: स्त्रियो मदीयं युवराजपदं च त्वं गृहाण। तच्छुत्वा पुष्पडालो अतीव लज्जित: परं वैराग्यं गत:। परमार्थेन तप: कर्तुं लग्र इति ॥६॥
वात्सल्ये विष्णुकुमारो दृष्टान्तोऽस्य कथा-
अवन्तिदेशे उज्जयिन्यां श्रीवर्मा राजा, तस्य बलिर्बृहस्पति: प्रह्लादो नमुचिश्चेति चत्वारो मन्त्रिण:। तत्रैकदा समस्तश्रुताधारो दिव्यज्ञानी सप्तशतमुनिसमन्वितोऽकम्पनाचार्य आगत्योद्यानके स्थित:। समस्तसंघश्च वारित: राजादिकेऽप्यागते केनापि जल्पनं न कर्तव्यमन्यथा समस्तसंघस्य नाशो भविष्यतीति। राज्ञा च धवलगृहास्थितेन पूजाहस्तं नगरीजनं गच्छन्तं दृष्ट्वा मन्त्रिण: पृष्टा: क्वायं लोकोऽकालयात्रायां गच्छतीति। तैरुक्तं क्षपणका बहवो बहिरुद्याने आयातास्तत्रायं जनो याति। वयमपि तान् द्रष्टुं गच्छाम इति भणित्वा राजापि तत्र मन्त्रिसमन्वितो गत:। प्रत्येके सर्वे वन्दिता:। न च केनापि आशीर्वादो दत्त:। दिव्यानुष्ठानेनातिनिस्पृहास्तिष्ठन्तीति सञ्चिन्त्य व्याघुटिते राज्ञि मन्त्रिभिर्दुष्टाभिप्रायैरुपहास: कृत:। बलीवर्दा एते न किञ्चिदपि जानन्ति, मूखा: दम्भमौनेन स्थिता:। एवं ब्रुवाणैर्गच्छद्भिरग्रे चर्यां कृत्वा श्रुतसागरमुनिमागच्छन्तमालोक्योक्तं ‘अयं तरुणबलीवर्द: पूर्णकुक्षिरागच्छति’। एतदाकण्र्य तेन ते राजागे्रऽनेकान्तवादेन जिता:। अकम्पनाचार्यस्य चागत्य वार्ता कथिता। तेनोक्तं सर्वसंघस्त्वया मारित: यदि वादस्थाने गत्वा रात्रौ त्वेकाकी तिष्ठसि तदा संघस्य जीवितव्यं, तव शुद्धिश्च भवति। ततोऽसौ तत्र गत्वा कायोत्सर्गेण स्थित:। मन्त्रिभिश्चातिलज्जितै: क्रुद्धै: रात्रौ संघं मारयितुं गच्छद्भिस्तमेकं मुनिमालोक्य येन परिभव: कृत: स एव हन्तव्य इति पर्यालोच्य तद्वधार्थं युगपच्चतुर्भि: खड्गा उद्गूर्णा। कम्पितनगरदेवतया तथैव ते कीलिता:। प्रभाते तथैव ते सर्वलोकैर्दृष्टा:। रुष्टेन राज्ञा क्रमागता इति न मारिता गर्दभारोहणादिकं कारयित्वा देशान्निर्घाटिता। अथ कुरुजाङ्गलदेशे हस्तिनागपुरे राजा महापद्मो राज्ञी लक्ष्मीमती पुत्रौ पद्मो विष्णुश्च। स एकदा पद्माय राज्यं दत्वा महापद्मो विष्णुना सह श्रुतसागर चन्द्राचार्यस्य समीपे मुनिर्जात:। ते च बलिप्रभृतय आगत्य पद्मराजस्य मन्त्रिणो जाता:। कुम्भपुरदुर्गे च सिंहबलो राजा दुर्गबलात् पद्ममण्डलस्योपद्रवं करोति। तद्ग्रहणचिन्तया पद्मं दुर्बलमालोक्य बलिनोक्तं किं देव! दौर्बल्ये कारणमिति। कथितं च राज्ञा। तच्छ्रुत्वा आदेशं याचयित्वा तत्र गत्वा बुद्धिमाहात्म्येन दुर्गं भंक्त्वा सिंहबलं गृहीत्वा व्याघुट्यागत:। तेन पद्मस्यासौ समर्पित:। देव! सोऽयं सिंहबल इति। तुष्टेन तेनोक्तं वाञ्छितं वरं प्रार्थयेति। बलिनोक्तं यदा प्रार्थयिष्यामि तदा दीयतामिति। अथ कतिपयदिनेषु विहरस्तेऽकम्पनाचार्यादय: सप्तशतयतयस्तत्रागता:। पुरक्षोभाद् बलिप्रभृतिभिस्तान् परिज्ञाय राजा एतद्भक्त इति पर्यालोच्य भयात्तन्मारणार्थं पद्म: पूर्ववरं प्रार्थित: सप्तदिनान्यस्माकं राज्यं देहीति। ततोऽसौ सप्तदिनानि राज्यं दत्वाऽन्त:पुरे प्रविश्य स्थित:। बलिना च आतापनगिरौ कायोत्सर्गेण स्थितान् मुनीन् वृत्यावेष्ट्य मण्डपं कृत्वा यज्ञ: कर्तुमारब्ध:। उच्छिष्टसराबच्छागादिजीवकलेवरैर्धूमैश्च मुनीनां मारणार्थमुपसर्ग: कृत:। मुनयश्च द्विविधसंन्यासेन स्थिता:। अथ मिथिलानगर्यामर्धरात्रे बहिर्विनिर्गतश्रुतसागरचन्द्राचार्येण आकाशे श्रवणनक्षत्रं कम्पमानमालोक्यावधिज्ञानेन ज्ञात्वा भणितं महामुनीनां महानुपसर्गो वर्तते। तच्छ्रुत्वा पुष्पधरनाम्रा विद्याधरक्षुल्लकेन पृष्टं भगवन्! क्व केषां मुनीनां महानुपसर्गो वर्तते? हस्तिनागपुरे अकम्पनाचार्यादीनां सप्तशतयतीनाम् उपसर्ग: कथं नश्यति? धरणिभूषणगिरौ विष्णुकुमारमुनिर्विक्रियद्र्धिसम्पन्नस्तिष्ठति स नाशयति। एतदाकण्र्य तत्समीपे गत्वा क्षुल्लकेन विष्णुकुमारस्य सर्वस्मिन् वृत्तान्ते कथिते मम किं विक्रिया ऋद्धिरस्तीति सञ्चिन्त्य तत्परीक्षार्थं हस्त: प्रसारित:। स गिरिं भित्वा दूरे गत:। ततस्तां निर्णीय तत्र गत्वा पद्मराजो भणित:। किं त्वया मुनिनामुपसर्ग: कारित:। भवत्कुले केनापीदृशं न कृतम्। तेनोक्तं किं करोमि मया पूर्वमस्य वरो दत्त इति। ततो विष्णुकुमारमुनिना वामनब्राह्मणरूपं धृत्वा दिव्यध्वनिना प्राध्ययनं कृतम्। बलिनोक्तं किं तुभ्यं दीयते। तेनोक्तं भूमे: पादत्रयं देहि। ग्रहिलब्राह्मण बहुतरमन्यत् प्रार्थयेति वारं वारं लोकैर्भण्यमानोऽपि तावदेव याचते। तता हस्तोदकादिविधिना भूमिपादत्रये दत्ते तेनैकपादो मेरौ दत्तो द्वितीयो मानुषोत्तरगिरौ तृतीयपादेन देवविमानादीनां क्षोभं कृत्वा बलिपृष्ठे तं पादं दत्वा बलिं बद्ध्वा मुनीनामुपसर्गो निवारित:। ततस्ते चत्वारोऽपि मन्त्रिण: पद्मस्य भयादागत्य विष्णुकुमारमुनेरकम्पनाचार्यादीनां च पादेषु लग्ना:। ते मन्त्रिण: श्रावकाश्च जाता इति ॥७॥
प्रभावनायां वज्रकुमारो दृष्टान्तोऽस्य कथा-
हस्तिनागपुरे बलराजस्य पुरोहितो गरुडस्तत्पुत्र: सोमदत्त: तेन सकलशास्त्राणि पठित्वा अहिच्छत्रपुरे निजमामसुभूतिपाश्र्वे गत्वा भणितं- माम! मां दुर्मुखराजस्य दर्शयेत्। न च गर्वितेन तेन दर्शित:। ततो ग्रहिलो भूत्वा सभायां स्वयमेव तं दृष्ट्वा आशीर्वादं दत्वा सर्वशास्त्रकुशलत्वं प्रकाश्य मन्त्रिपदं लब्धवान्। तं तथाभूतमालोक्य सुभूतिमामो यज्ञदत्तां पुत्रीं परिणेतुं दत्तवान्। एकदा तस्या गर्भिण्या वर्षाकाले आम्रफलभक्षणे दोहलको जात:। तत: सोमदत्तेन तान्युद्यानवने अन्वेषयता यत्राम्रवृक्षे सुमित्राचार्यो योगं गृहीतवांस्तं नानाफलै: फलितं दृष्ट्वा तस्मात्तान्यादाय पुरुषहस्ते प्रेषितवान्। स्वयं च धर्मं श्रुत्वा निर्विण्णस्तपो गृहीत्वा आगममधीत्य परिणतो भूत्वा नाभिगिरौ आतपनेन स्थित:। यज्ञदत्ता च पुत्रं प्रसूता तं वृत्तान्तं श्रुत्वा बंधुसमीपगता। तस्य शुद्धिं ज्ञात्वा धृत्वा दुर्वचनानि दत्वा गृहं गता। अत्र प्रस्तावे दिवाकरदेवनामा विद्याधरोऽमरावतीपुर्या: पुरन्दरनाम्रा लघुभ्रात्रा राज्यान्निर्घाटित:। सकलत्रो मुनिं वन्दितुमायात:। तं बालं गृहीत्वा निजभार्याया: समप्र्य वज्रकुमार इति नाम कृत्वा गत:। स च वज्रकुमार: कनकनगरे विमलवाहननिजमैथुनिकसमीपे सर्वविद्यापारगो युवा च क्रमेण जात:। अथ गरुडवेगाङ्गवत्यो: पुत्री पवनवेगा हेमन्तपर्वते प्रज्ञप्तिं विद्यां महाश्रमेण साधयन्ती पवनाकम्पित बदरीवज्रकण्टकेन लोचने विद्धा। ततस्तत्पीडया चलचित्ताया विद्या न सिद्धयति। ततो वज्रकुमारेण च तां तथा दृष्ट्वा विज्ञानेन कण्टक उद्धृत:। तत: स्थिरचित्तायास्तस्या विद्या सिद्धा। उक्तं च तया भवत्प्रसादेन एव विद्या सिद्धा, त्वमेव मे भत्र्तेत्युक्त्वा परिणीत:। वज्रकुमारेणोक्तं तात! अहं कस्य पुत्र इति सत्यं कथय, तस्मिन् कथिते मे भोजनादौ प्रवृत्तिरिति। ततस्तेन पूर्ववृत्तान्त: सर्व: सत्य एव कथित:। तमाकण्र्य निजगुरुं द्रष्टुं बन्धुभि: सह मथुरायां क्षत्रियगुहायां गत:। तत्र च सोमदत्तगुरोर्दिवाकरदेवेन वन्दनां कृत्वा वृत्तान्त: कथित:। समस्तबन्धून महता कष्टेन विसृज्य वज्रकुमारो मुनिर्जात:। अत्रान्तरे मथुरायामन्या कथा- राजा पूतिगन्धो राज्ञी उर्विला। सा च सम्यग्दृष्टिरतीव जिनधर्मप्रभावनायां रता। नन्दीश्वराष्टदिनानि प्रतिवर्षं जिनेन्द्ररथयात्रां त्रीन् वारान् कारयति। तत्रैव नगर्यां श्रेष्ठी सागरदत्त: श्रेष्ठिनी समुद्रदत्ता पुत्री दरिद्रा। मृते सागरदत्ते दरिद्रा परगृहे निक्षिप्तसिक्थानि भक्षयन्ती चर्यां प्रविष्टेन मुनिद्वयेन दृष्टा ततो लघुमुनिनोक्तं ‘हा! वराकी महता कष्टेन जीवतीति।’ तदाकण्र्य ज्येष्ठमुनिनोक्तं अत्रैवास्य राज्ञ: पट्टराज्ञी वल्लभा भविष्यतीति। भिक्षां भ्रमता धर्मश्री वन्दकेन तद्वचनमाकण्र्य नान्यथा मुनिभाषितमिति सञ्चिन्त्य स्वविहारे तां नीत्वा मृष्टाहारै: पोषिता। एकदा यौवनभरे चैत्रमासे आन्दोलयन्तीं तां दृष्ट्वा राजा अतीव विरहावस्थां गत:। ततो मन्त्रिभिस्तां तदर्थं वन्दको याचित:। तेनोक्तं यदि मदीयं धर्मं राजा गृति तदा ददामीति। तत्सर्वं कृत्वा परिणीता। पट्टमहादेवी तस्य सातिवल्लभा जाता। फाल्गुननन्दीश्वर यात्रायामुर्विला रथयात्रा महारोपं दृष्ट्वा तया भणितं देव! मदीयो बुद्धरथोऽधुना पुर्यां प्रथमं भ्रमतु। राज्ञा चोक्तमेवं भवत्विति। तत उर्विला वदति ‘मदीयो रथो यदि प्रथमं भ्रमति तदाहारे मम प्रवृत्तिरन्यथा निवृत्तिरिति’ प्रतिज्ञां गृहीत्वा क्षत्रियगुहायां सोमदत्ताचार्यपाश्र्वे गता। तस्मिन् प्रस्तावे वज्रकुमारमुनेर्वन्दनाभक्त्यर्थमायाता दिवाकरदेवादयो विद्याधरास्तदीयवृत्तान्तं च श्रुत्वा वज्रकुमारमुनिना ते भणिता:। उर्विलाया: प्रतिज्ञारूढाया रथयात्रा भवद्भि: कर्तव्येति। ततस्तैर्बुद्धदासी रथं भंक्त्वा नानाविभूत्या उर्विलाया रथयात्रा कारिता। तमतिशयं दृष्ट्वा प्रतिबुद्धा बुद्धदासी अन्ये च जना जिनधर्मरता जाता इति ॥२०॥