GP:रत्नकरंड श्रावकाचार - श्लोक 24 - टीका
From जैनकोष
पाषण्डिमोहनं । ज्ञेयं ज्ञातव्यम् । कोऽसौ ? पुरस्कार: प्रशंसा । केषाम् ? पाषण्डिनां मिथ्यादृष्टिलिङ्गिनाम् । किंविशिष्टानाम् ? सग्रन्थारम्भहिंसानां ग्रन्थाश्च दासीदासादय:, आरम्भाश्च कृष्णादय: हिंसाश्च अनेकविधा: प्राणिविधा: सह ताभिर्वर्तन्त इत्येवं ये तेषां । तथा संसारावर्तवर्तिनां संसारे आवर्तो भ्रमणं येभ्यो विवाहादिकर्मभ्यस्तेषु वर्तते इत्येवं शीलास्तेषां, एतैस्त्रिभिर्मूढैरपोढत्वसम्पन्नं सम्यग्दर्शनं संसारोच्छित्तिकारणम् अस्मयत्वसम्पन्नवत् ॥२४॥