GP:रत्नकरंड श्रावकाचार - श्लोक 26 - टीका
From जैनकोष
स्मयेन] उक्तप्रकारेण । गर्विताशयो दर्पितचित्त: । यो जीव: । धर्मस्थान रत्नत्रयोपेतानन्यान् । अत्येति अवधीरयति अवज्ञयातिक्रामतीत्यर्थ: । सोऽत्येति अवधीरयति । कम् ? धर्मं रत्नत्रयम् । कथम्भूतम् ? आत्मीयं जिनपतिप्रणीतम् । यतो धर्मो धार्मिकै: रत्नत्रयानुष्ठायिभिर्विना न विद्यते ॥२६॥