GP:रत्नकरंड श्रावकाचार - श्लोक 27 - टीका
From जैनकोष
‘पापं ज्ञानावरणाद्यशुभं कर्म निरुद्ध्यते येनासौ’ पापनिरोधो रत्नत्रयसद्भाव: स यद्यस्ति तदा अन्यसम्पदा अन्यस्य कुलैश्वर्यादे: सम्पदा सम्पत्त्या किं प्रयोजनम् ? न किमपि प्रयोजनं तन्निरोधेऽतोऽप्यधिकाया विशिष्टतरायास्तत्सम्पद: सद्भावमवबुद्ध्यमानस्य तन्निबन्धनस्मयस्यानुत्पत्ते: । अथ पापास्रवोऽस्ति पापस्याशुभकर्मण: आस्रवो मिथ्यात्वाविरत्यादिरस्ति तथाप्यन्यसम्पदा किं प्रयोजनम् । अग्रे दुर्गतिगमनादिकम् अवबुद्ध्यमानस्य तत्सम्पदा प्रयोजनाभावतस्तत्स्मयस्य कर्तुमनुचितत्वात् ॥२७॥