GP:रत्नकरंड श्रावकाचार - श्लोक 32 - टीका
From जैनकोष
सम्यक्त्वेऽसति अविद्यमाने। न सन्ति। के ते ? सम्भूतिस्थितिवृद्धिफलोदया: । कस्य ? विद्यावृत्तस्य । अयमर्थ:- विद्याया मतिज्ञानादिरूपाया: वृत्तस्य च सामायिकादिचारित्रस्य या सम्भूति: प्रादुर्भाव:, स्थितिर्यथावत्पदार्थपरिच्छेदकत्वेन कर्मनिर्जरादिहेतुत्वेन चावस्थानं, वृद्धिरुत्पन्नस्य परतर उत्कर्ष: फलोदयो देवादिपूजाया स्वर्गापवर्गादेश्च फलस्योत्पत्ति: । कस्याभावे कस्येव ते न स्युरित्याह- बीजाभावे तरोरिव बीजस्य मूलकारणस्याभावे यथा तरोस्ते न सन्ति तथा सम्यक्त्वस्यापि मूलकारणभूतस्याभावे विद्यावृत्तस्यापि ते न सन्तीति ॥३२॥