GP:रत्नकरंड श्रावकाचार - श्लोक 33 - टीका
From जैनकोष
निर्मोहो दर्शनप्रतिबन्धकमोहनीयकर्मरहित: सद्दर्शनपरिणत इत्यर्थ: इत्थम्भूतो गृहस्थो मोक्षमार्गस्थो भवति । अनगारो यति:। पुन: नैव मोक्षमार्गस्थो भवति । किंविशिष्ट: ? मोहवान् दर्शनमोहोपेत: । मिथ्यात्वपरिणत इत्यर्थ: । यह एवं ततो गृही गृहस्थो । यो निर्मोह: स श्रेयान् उत्कृष्ट: । कस्मात् ? मुने: । कथम्भूतात् ? मोहिनो दर्शनमोहयुक्तात् ॥३३॥