GP:रत्नकरंड श्रावकाचार - श्लोक 34 - टीका
From जैनकोष
तनुभृतां संसारिणाम् । सम्यक्त्वसमं सम्यक्त्वेन समं तुल्यम् । श्रेया श्रेष्ठमुत्तमोपकारकम् । किञ्चित् अन्यवस्तु नास्ति । यतस्तस्मिन् सति गृहस्थोऽपि यतेरप्युत्कृष्टतां प्रतिपद्यते । कदा तन्नास्ति ? त्रैकाल्ये अतीतानागतवर्तमानकालत्रये । तस्मिन् क्व तन्नास्ति ? त्रिजगत्यपि आस्तां तावन्नियतक्षेत्रादौ तन्नास्ति अपितु त्रिजगत्यपि त्रिभुवनेऽपि । तथा अश्रेयो अनुपकारकम् । मिथ्यात्वसमं किञ्चिदन्यन्नास्ति । यतस्तत्सद्भावे यतिरपि व्रतसंयमसम्पन्नो गृहस्थादपि तद्विपरीतादपकृष्टतां व्रजतीति ॥३४॥