GP:रत्नकरंड श्रावकाचार - श्लोक 35 - टीका
From जैनकोष
सम्यग्दर्शनशुद्धा सम्यग्दर्शनं शुद्धं निर्मलं येषां ते । सम्यग्दर्शनलाभात्पूर्वं बद्धायुष्कान् विहाय अन्ये न व्रजन्ति न प्राप्रुवन्ति । कानि । नारकतिर्यङ्नपुंसकस्त्रीत्वानि । त्वशब्द: प्रत्येकमभिसम्बध्यते नारकत्वं तिर्यक्त्वं नपुंसकत्वं स्त्रीत्वमिति । न केवलमेतान्येव न व्रजन्ति किन्तु दुष्कुलविकृताल्पायुर्दरिद्रतां च । अत्रापि ताशब्द: प्रत्येकमभिसम्बध्यते ये निर्मलसम्यक्त्वा: ते न भवान्तरे दुष्कुलतां दुष्कुले उत्पत्तिं विकृततां काणकुण्ठादिरूपविकारम् अल्पायुष्कतामन्तर्मुहूर्ताद्यायुष्कोत्पत्तिं, दरिद्रतां दारिद्र्योपेतकुलोत्पत्तिम् । कथम्भूता अपि एतत्सर्वं व्रजन्ति ? अव्रतिका अपि अणुव्रतरहिता अपि ॥३५॥