GP:रत्नकरंड श्रावकाचार - श्लोक 36 - टीका
From जैनकोष
दर्शनपूता दर्शनेन पूता: पवित्रिता: । दर्शनं वा पूतं पवित्रं येषां ते । भवन्ति । मानवतिलका: मानवानां मनुष्याणां तिलका मण्डनीभूता मनुष्यप्रधाना इत्यर्थ: । पुनरपि कथम्भूता इत्याह ओज इत्यादि ओज उत्साह: तेज: प्रताप: कान्तिर्वा, विद्या सहजा अहार्या च बुद्धि:, वीर्यं विशिष्टं सामथ्र्यं यशोविशिष्टाख्याति: वृद्धि: कलत्र-पुत्रपौत्रादिसम्पत्ति:, विजय: पराभिभवेनात्मनो गुणोत्कर्ष:, विभवो धनधान्यद्रव्यादिसम्पत्ति: एतै: सनाथा सहिता । तथा माहाकुला महच्च तत् कुलं च माहाकुलं तत्र भवा: महार्था महान्तोऽर्था धर्मार्थकाममोक्षलक्षणा येषाम् ॥३६॥