GP:रत्नकरंड श्रावकाचार - श्लोक 38 - टीका
From जैनकोष
ये स्पष्टदृशो निर्मलसम्यक्त्वा: । त एव चक्रं चक्ररत्नम् । वर्तयितुम् आत्माधीनतया तत्साध्यनिखिलकार्येषु प्रवर्तयितुम्। प्रभवन्ति ते समर्था भवन्ति । कथम्भूता: ? सर्वभूमिपतय: सर्वा चासौ भूमिश्च षट्खण्डपृथ्वी तस्या: पतय: चक्रवर्तिन: । पुनरपि कथम्भूता: ? नवनिधिसप्तद्वयरत्नाधीशा नवनिधयश्च सप्तद्वयरत्नानि सप्तानां द्वय तेन सङ्ख्यातानि रत्नानि चतुर्दश तेषामधीशा: स्वामिन: । क्षत्रमौलिशेखरचरणा: क्षताद्दोषात् त्रायन्ते रक्षन्ति प्राणिनो ये ते क्षत्रा राजानस्तेषां मौलयो मुकुटानि तेषु शेखरा आपीठास्तेषु चरणानि येषाम् ॥३८॥