GP:रत्नकरंड श्रावकाचार - श्लोक 39 - टीका
From जैनकोष
दृष्ट्या सम्यग्दर्शनमाहात्म्येन । वृषचक्रधरा भवन्ति वृषो धर्म: तस्य चक्रं वृषचक्रं तद्धरन्ति ये ते वृषचक्रधरास्तीर्थङ्करा: । किंविशिष्टा: ? नूतपादाम्भोजा: पादादेवाम्भोजे, नूते स्तुते पादाम्भोजे येषाम् । कै: ? अमरासुरनरपतिभि: अमरपतय: ऊध्र्वलोकस्वामिन: सौधर्मादय:, असुरपतयोऽधोलोकस्वामिनो धरणेन्द्रादय:, नरपतय: तिर्यग्लोकस्वामिनश्चक्रवर्तिन: । न केवलमेतैरेव नूतपादाम्भोजा:, किन्तु यमधरपतिभिश्च यमं व्रतं धरन्ति ये ते यमधरा मुनयस्तेषां पतयो गणधरास्तैश्च । पुनरपि कथम्भूतास्ते ? सुनिश्चितार्था शोभनो निश्चित: परिसमाप्तिं गतोऽर्थो धर्मादिलक्षणो येषाम् । तथा लोकशरण्या: अनेकविधदु:खदायिभि: कर्मारातिभिरुपद्रुतानां लोकानां शरणे साधव: ॥३९॥