GP:रत्नकरंड श्रावकाचार - श्लोक 3 - टीका
From जैनकोष
दृष्टिश्च तत्त्वार्थश्रद्धानं, ज्ञानं च तत्त्वार्थप्रतिपत्ति:, वृत्तं चारित्रं पापक्रियानिवृत्तिलक्षणम् । सन्ति समीचीनानि च तानि दृष्टिज्ञानवृत्तानि च । धर्मं उक्तस्वरूपम् । विदु: वदन्ति प्रतिपादयन्ते । के ते ? धर्मेश्वरा: रत्नत्रयलक्षणधर्मस्य ईश्वरा: अनुष्ठातृत्वेन प्रतिपादकत्वेन च स्वामिनो जिननाथा: । कुतस्तान्येव धर्मो न पुनर्मिथ्यादर्शनादीन्यपीत्याह-यदीयेत्यादि । येषां सद्दृष्ट्यादीनां सम्बन्धीनि यदीयानि तानि च तानि प्रत्यनीकानि च प्रतिकूलानि मिथ्यादर्शनादीनि भवन्ति सम्पद्यन्ते । का ? भवपद्धति: संसारमार्ग: । अयमर्थ :- यत: सम्यग्दर्शनादिप्रतिपक्षभूतानि मिथ्यादर्शनादीनि संसारमार्गभूतानि । अत: सम्यग्दर्शनादीनि स्वर्गापवर्गसुखसाधकत्वाद्धर्मरूपाणि सिद्धयन्तीति ॥३॥