GP:रत्नकरंड श्रावकाचार - श्लोक 40 - टीका
From जैनकोष
दर्शनशरणा: दर्शनं शरणं संसारापायपरिरक्षकं येषां, दर्शनस्य वा शरणं रक्षणं यत्र ते । शिवं मोक्षम् । भजन्त्यनुभवन्ति । कथम्भूतम् ? अजरं न विद्यते जरा वृद्धत्वं यत्र । अरुजं न विद्यते रुग्व्याधिर्यत्र । अक्षयं न विद्यते लब्धानन्तचतुष्टयक्षयो यत्र । अव्याबाधं न विद्यते दु:खकारणेन केनचिद्विविधा विशेषेण वा आबाधा यत्र । विशोकभयशङ्कं विगता शोकभयशङ्का यत्र । काष्ठागतसुखविद्याविभवं काष्ठा परमप्रकर्षं गत: प्राप्त: सुखविद्ययोर्विभवो विभूतिर्यत्र । विमलं विगतं मलं द्रव्यभावरूपकर्म यत्र ॥४०॥