GP:रत्नकरंड श्रावकाचार - श्लोक 42 - टीका
From जैनकोष
वेद वेत्ति । यत्तदाहुर्बु्रवते । ज्ञानं भावश्रुतरूपम् । के ते ? आगमिन: आगमज्ञा: । कथं वेद ? नि:सन्देहं नि:संशयं यथा भवति तथा । विना च विपरीतात् विपरीताद्विपर्ययाद्विनैव विपर्ययव्यवच्छेदेनेत्यर्थ: । तथा अन्यूनं परिपूर्णं सकलं वस्तुस्वरूपं यद्वेद तद्ज्ञानं न न्यूनं विकलं तत्स्वरूपं यद्वेद। तर्हि जीवादिवस्तुस्वरूपेऽविद्यमानमपि सर्वथा नित्यत्वक्षणिकत्वाद्वैतादिरूपं कल्पयित्वा यद्वेत्ति तदधिकार्थवेदित्वात् ज्ञानं भविष्यतीत्यत्राह- अनतिरिक्तं वस्तुस्वरूपादनतिरिक्तमनधिकं यद्वेद तज्ज्ञानं न पुनस्तद्वस्तुस्वरूपादधिकं कल्पनाशिल्पिकल्पितं यद्वेद। एवं चैतद्विशेषणचतुष्टयसामथ्र्याद्यथाभूतार्थवेदकत्वं तस्य सम्भवति तद्दर्शयति- याथातथ्यं यथावस्थितवस्तुस्वरूपं यद्वेद तद्ज्ञानं भावश्रुतम्। तद्रूपस्यैव ज्ञानस्य जीवाद्यशेषार्थानामशेषविशेषत: केवलज्ञानवत् साकल्येन स्वरूपप्रकाशनसामथ्र्यसम्भवात् । तदुक्तम्-
स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने।
भेद: साक्षादसाक्षाच्च ह्यवस्त्वन्यतमं भवेत् ॥१॥ इति
अतस्तदेवात्र धर्मत्वेनाभिप्रेतं मुख्यतो मूलकारणभूततया स्वर्गापवर्गसाधनसामथ्र्यसम्भवात् ॥१॥