GP:रत्नकरंड श्रावकाचार - श्लोक 44 - टीका
From जैनकोष
तथा तेन प्रथमानुयोगप्रकारेण । मतिर्मननं श्रुतज्ञानम् । अवैति जानाति । कम् ? करणानुयोगं लोकालोकविभागं पञ्चसङ्ग्रहादिलक्षणम् । कथम्भूतमिव ? आदर्शमिव यथा आदर्शो दर्पणो मुखादेर्यथावत्स्वरूपप्रकाशकस्तथा करणानुयोगोऽपि स्वविषयस्यायं प्रकाशक: । लोकालोकविभक्ते: लोक्यन्ते जीवादय: पदार्था यत्रासौ लोकस्त्रिचत्वारिंशदधिकशतत्रयपरिमितरज्जुपरिमाण:, तद्विपरीतोऽलोकोऽनन्तमानावच्छिन्न शुद्धाकाशस्वरूप: तयोर्विभक्तिर्विभागो भेदस्तस्या: आदर्शमिव । तथा युगपरिवृत्ते: युगस्य कालस्योत्सर्पिण्यादे: परिवृत्ति: परावर्तनं तस्या आदर्शमिव। तथा चतुर्गतीनां च नरकतिर्यग्मनुष्यदेवलक्षणानामादर्शमिव ॥३॥