GP:रत्नकरंड श्रावकाचार - श्लोक 45 - टीका
From जैनकोष
सम्यग्ज्ञानं भावश्रुतरूपम् । विजानाति विशेषेण जानाति । कम् ? चरणानुयोगसमयं चारित्रप्रतिपादकं शास्त्रमाचाराङ्गादि । कथम्भूतम् ? चारित्रोत्पत्तिवृद्धिरक्षाङ्गं चारित्रस्योत्पत्तिश्च वृद्धिश्च रक्षा च तासामङ्गं कारणम् अङ्गानि वा कारणानि प्ररूप्यन्ते यत्र। केषां तदङ्गम्? गृहमेध्यनगाराणां गृहमेधिन: श्रावका: अनगारा मुनयस्तेषाम् ॥४॥