GP:रत्नकरंड श्रावकाचार - श्लोक 46 - उत्थानिका
From जैनकोष
द्रव्यानुयोगदीपो द्रव्यानुयोगसिद्धान्तसूत्रं तत्त्वार्थसूत्रादिस्वरूपो द्रव्यागम: स एव दीप: स । आतनुते विस्तारयति अशेषविशेषत: प्ररूपयति । के ? जीवाजीवसुतत्त्वे उपयोगलक्षणो जीव: तद्विपरीततोऽऽजीव: तावेव शोभने अबाधिते तत्त्वे वस्तुस्वरूपे आतनुते । तथा पुण्यापुण्ये सद्वेद्यशुभायुर्नामगोत्राणि हि पुण्यं ततोऽन्यत्कर्मापुण्यमुच्यते, ते च मूलोत्तरप्रकृतिभेदेनाविशेषविशेषतो द्रव्यानुयोगदीप आतनुते । तथा बन्धमोक्षौ च मिथ्यात्वाविरतिप्रमादकषाययोगलक्षणहेतुवशादुपार्जितेन कर्मणा सहात्मन: संश£ेषो बन्ध: बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षलक्षणो मोक्षस्तावप्यशेषत: द्रव्यानुयोगदीप आतनुते। कथम्? श्रुतविद्यालोकं श्रुतविद्या भावश्रुतं सैवालोक: प्रकाशो यत्र कर्मणि तद्यथाभवत्येवं जीवादीनि स प्रकाशयतीति ॥५॥