GP:रत्नकरंड श्रावकाचार - श्लोक 47 - टीका
From जैनकोष
'चरणं' हिंसादिनिवृत्तिलक्षणं चारित्रम् । 'प्रतिपद्यते' स्वीकरोति । कोऽसौ ? 'साधु' - र्भव्य: । कथम्भूत: ? 'अवाप्तसंज्ञान:' । कस्मात्? 'दर्शनलाभात्' । तल्लाभोऽपि तस्य कस्मिन् सति सञ्जात: ? 'मोहतिमिरापहरणे' मोहो दर्शनमोह: स एव तिमिरं तस्यापहरणे यथासम्भवमुपशमे क्षये क्षयोपशमे वा। अथवा मोहो दर्शनचारित्रमोहस्तिमिरं ज्ञानावरणादि तयोरपहणे । अयमर्थ:- दर्शनमोहापहरणे दर्शनलाभ: । तिमिरापहरणे सति दर्शनलाभादवाप्तसंज्ञान: भवत्यात्मा । ज्ञानावरणापगमे हि ज्ञानमुत्पद्यमानं सद्दर्शनप्रसादात् सम्यग्व्यपदेशं लभते, तथाभूतश्चात्मा चारित्रमोहापगमे चरणं प्रतिपद्यते । किमर्थम् ? 'रागद्वेषनिवृत्त्यै' रागद्वेषनिवृत्तिनिमित्तम् ॥४७॥