GP:रत्नकरंड श्रावकाचार - श्लोक 49 - उत्थानिका
From जैनकोष
'चारित्रं' भवति । कासौ ? 'विरति' व्र्यावृत्ति: । केभ्य: 'हिंसानृतचौर्येभ्य:' ? हिंसादीनां स्वरूपकथनं स्वयमेवाग्रे ग्रन्थकार: करिष्यति । न केवलमेतेभ्य एव विरति :- अपि तु 'मैथुनसेवापरिग्रहाभ्याम्' । एतेभ्य: कथम्भूतेभ्य:? 'पापप्रणालिकाभ्य:' पापस्य प्रणालिका इव पापप्रणालिका आस्रवद्वाराणि ताभ्य: । कस्य तेभ्यो विरति: ? 'संज्ञस्य' सम्यग्जानातीति सञ्ज्ञ: तस्य हेयोपादेयतत्त्वपरिज्ञानवत: ॥४९॥