GP:रत्नकरंड श्रावकाचार - श्लोक 55 - उत्थानिका
From जैनकोष
स्थूलमृषावादवैरमणं स्थूलश्चासौ मृषावादश्च तस्माद्वैरमणं विरमणमेव वैरमणम् । तद्वदन्ति । के ते ? सन्त: सत्पुरुषा: गणधरदेवादय: । तत्किम्, सन्तो यन्न वदन्ति । अलीकम् असत्यम् । कथम्भूतम् ? स्थूलम् यस्मिन्नुक्ते स्वपरयोर्वधबन्धादिकं राजादिभ्यो भवति तत्स्वयं तावन्न वदति । तथा परान् अन्यान् तथाविधमलीकं न वादयति । न केवलमलीकं किन्तु सत्यमपि चोरोऽयमित्यादिरूपं न स्वयं वदति न परान् वादयति । किं विशिष्टं यदुक्तं सत्यमपि परस्य विपदे ऽपकाराय भवति ॥