GP:रत्नकरंड श्रावकाचार - श्लोक 58 - टीका
From जैनकोष
अस्तेये चौर्यविरमणे । व्यतीपाता अतीचारा: पञ्च भवन्ति । तथा हि । चौरप्रयोग: चोरयत: स्वयमेवान्येन वा पे्ररणं प्रेरितस्य वा अन्येनानुमोदनम् । चौरार्थादानं च अप्रेरितेनानुमतेन च चौरेणानीतस्यार्थस्य ग्रहणम् । विलोपश्च उचितन्यायादन्येन प्रकारेणार्थस्यादानं विरुद्धराज्यातिक्रम इत्यर्थ: । विरुद्धराज्ये स्वल्पमूल्यानि महार्घाणि द्रव्याणीति कृत्वा स्वल्पतरेणार्थेन गृाति । सदृशसन्मिश्रश्च प्रतिरूपकव्यवहार इत्यर्थ: सदृशेन तैलादिना सन्मिश्रं घृतादिकं करोति । कृत्रिमैश्च हिरण्यादिभिर्वञ्चनापूर्वकं व्यवहारं करोति । हीनाधिकविनिमानं विविधं नियमेन मानं विनिमानं मानोन्मानमित्यर्थ: । मानं हि प्रस्थादि, उन्मानं तुलादि, तच्च हीनाधिकं, हीनेन अन्यस्मै ददाति, अधिकेन स्वयं गृह्णातीति ॥