GP:रत्नकरंड श्रावकाचार - श्लोक 63 - उत्थानिका
From जैनकोष
फलन्ति फलं प्रयच्छन्ति । के ते ? पञ्चाणुव्रतनिधय: पञ्चाणुव्रतान्येव निधयो निधानानि । कथम्भूतानि ? निरतिक्रमणा निरतिचारा: । किं फलन्ति ? सुरलोकम् । यत्र सुरलोके लभ्यन्ते । कानि ? अवधिरवधिज्ञानं । अष्टुणा अणिमामहिमेत्यादय: । दिव्यशरीरं च सप्तधातुविवर्जितं शरीरम् । एतानि सर्वाणि यत्र लभ्यन्ते ॥