GP:रत्नकरंड श्रावकाचार - श्लोक 67 - टीका
From जैनकोष
आख्यान्ति प्रतिपादयन्ति । कानि ? गुणव्रतानि । के ते ? आर्या: गुणैर्गुणवद्भिर्वा जयन्ते प्राप्यन्त इत्यार्यास्तीर्थङ्करदेवादय: । किं तद्गुणव्रतम् ? दिग्व्रतं दिग्विरति । न केवलमेतदेव किन्तु अनर्थदण्डव्रतं चानर्थदण्डविरतिम् । तथा भोगोपभोगपरिमाणम् सकृद्भुज्यत इति भागोऽशनपानगन्धमाल्यादि: पुन: पुनरुपभृज्यत इत्युपभोगो वस्त्राभरणयानशयनादिस्तयो: परिमाणं कालनियमेन यावज्जीवनं वा । एतानि त्रीणि कस्माद्गुणव्रतान्युच्यन्ते ? अनुबृंहणात् वृद्धिं नयनात् । केषाम् ? गुणानाम् अष्टमूलगुणानाम् ॥