GP:रत्नकरंड श्रावकाचार - श्लोक 68 - टीका
From जैनकोष
दिग्व्रतं भवति । कोऽसौ ? सङ्कल्प: । कथम्भूतम् ? अतोऽहं बहिर्न यास्यामी त्येवं रूप: । किं कृत्वा ? दिग्वलयं परिगणितं कृत्वा समर्यादं कृत्वा । कथम् ? आमृति मरणपर्यन्तं यावत् । किमर्थम् ? अणुपापविनिवृत्यै सूक्ष्मस्यापि पापस्य विनिवृत्त्यर्थम् ॥