GP:रत्नकरंड श्रावकाचार - श्लोक 71 - टीका
From जैनकोष
चरणमोहपरिणामा: भावरूपाश्चारित्रमोहपरिणतय: । कल्प्यन्ते उपचर्यन्ते । किमर्थम् ? महाव्रतनिमित्तम् । कथम्भूता: सन्त: ? सत्त्वेन दुरवधारा अस्तित्वेन महता कष्टेनावधार्यमाणा: सन्तोऽपि तेऽस्तित्वेन लक्षयितुं न शक्यन्त इत्यर्थ: । कुतस्ते दुरवधारा: ? मन्ददरा अतिशयेनानुत्कटा: । मन्दतरत्वमप्येषां कुत: ? प्रत्याख्यानतनुत्वात् प्रत्याख्यानशब्देन हि प्रत्याख्यानावरणा: द्रव्यक्रोधमानमायालोभा गृह्यन्ते । नामैकदेशे हि प्रवृत्ता: शब्दा नाम्न्यपि वर्तन्ते भीमादिवत् । प्रत्याख्यानं हि सविकल्पेन हिंसादिविरतिलक्षण: संयमस्तदावृण्वन्ति ये ते प्रत्याख्यानावरणा द्रव्यक्रोधादय:, यदुदये ह्यात्मा कात्स्न्र्यात्तद्विरतिं कर्तुं न शक्नोति, अतो द्रव्यरूपाणां क्रोधादीनां तदुत्वान्मन्दोदयत्वाद्भावरूपाणामेषां मन्दतरत्वं सिद्धम् ॥७१॥