GP:रत्नकरंड श्रावकाचार - श्लोक 74 - टीका
From जैनकोष
अनर्थदण्डव्रतं विदुर्जानन्ति । के ते ? व्रतधराग्रण्य: व्रतधराणां यतीनां मध्येऽग्रण्य: प्रधानभूतास्तीर्थङ्करदेवादय: । विरमणं व्यावृत्ति: । केभ्य: ? सपापयोगेभ्य: पापेन सह योग: सम्बन्ध: पापयोगस्तेन सह वर्तमानेभ्य: पापोपदेशाद्यनर्थदण्डेभ्य: । किंविशिष्टेभ्य: ? अपार्थकेभ्य: निष्प्रयोजनेभ्य: । कथं तेभ्यो विरमणम् ? अभ्यन्तरं दिगवधे: दिगवधेरभ्यन्तरं यथा भवेत्येवं तेभ्यो विरमणम् । अतएव दिग्विरतिव्रतादस्य भेद: । तद्व्रते हि मर्यादातो बहि: पापोपदेशादिविरमणम् अनर्थदण्डविरतिव्रते तु ततोऽभ्यन्तरे तद्विरमणम् ॥