GP:रत्नकरंड श्रावकाचार - श्लोक 77 - टीका
From जैनकोष
हिंसादानं बु्रवन्ति । के ते ? बुधा गणधरदेवादय: किं तत् ? दानं । यत्केषाम् ? वधहेतूनां हिंसाकारणानाम् । केषां तत्कारणानामित्याह- परश्वि इत्यादि । परशुश्च कृपाणश्च खनित्रं च ज्वलनश्चाऽऽयुधानि च क्षुरिकालकुटादीनि शृङ्गि च विषसामान्यं शृङ्खला च ता आदयो येषां ते तथोक्तास्तेषाम् ॥