GP:रत्नकरंड श्रावकाचार - श्लोक 79 - टीका
From जैनकोष
दु:श्रुतिर्भवति । कासौ ? श्रुति:श्रवणं । केषाम् ? अवधीनां शास्त्राणाम् । किं कुर्वताम् ? कलुषयतां मलिनयताम् । किं तत् ? चेत: क्रोधमानमायालोभाद्याविष्टं चित्तं कुर्वतामित्यर्थ: । कै: कृत्वेत्याह -- आरम्भेत्यादि आरम्भश्च कृष्यादि: सङ्गश्च परिग्रह: तयो: प्रतिपादनं वार्तानीतौ विधीयते । 'कृषि: पशुपाल्यं वाणिज्यं च वार्ता' इत्यभिधानात्, साहसं चात्यद्भुतं कर्म वीरकथायां प्रतिपाद्यते, मिथ्यात्वं चाद्वैतक्षणिकमित्यादि, प्रमाणविरुद्धार्थप्रतिपादकशास्त्रेण क्रियते, द्वेषश्च विद्वेषीकरणादिशास्त्रेणाभिधीयते रागश्च वशीकरणादिशास्त्रेण विधीयते, मदश्च 'वर्णानां ब्राह्मणो गुरु' रित्यादिग्रन्थाज्ज्ञायते, मदनश्च रतिगुणविलासपताकादिशास्त्रादुत्कटो भवति तै: एतै: कृत्वा चेत: कलुषयतां शास्त्राणां श्रुतिर्दु:श्रुतिर्भवति ॥३३॥