GP:रत्नकरंड श्रावकाचार - श्लोक 80 - टीका
From जैनकोष
प्रभाषन्ते प्रतिपादयन्ति । काम् ? प्रमादचर्याम् । किं तदित्याह -- क्षितीत्यादि । क्षितिश्च सलिलं च दहनश्च तेषामारम्भं क्षितिखननसलिलप्रक्षेपणदहनप्रज्वलनपवनकरणलक्षणम् । किंविशिष्टम् ? विफलं निष्प्रयोजनम् । तथा वनस्पतिच्छेदं विफलम् । न केवलमेतदेव किन्तु सरणं सारणमपि च सरणं स्वयं निष्प्रयोजनं पर्यटनं सारणमन्यस्य निष्प्रयोजनं गमनप्रेरणम् ॥