GP:रत्नकरंड श्रावकाचार - श्लोक 88-89 - टीका
From जैनकोष
युगलम् । नियमो भवेत् । किं तत् ? प्रत्याख्यानम् । कया ? कालपरिच्छित्या । तामेव कालपरिच्छित्तिं दर्शयन्नाह- अद्येत्यादि, अद्येत्ति प्रवर्तमानघटिकाप्रहरादिलक्षणकालपरिच्छित्त्या प्रत्याख्यानम्। तथा दिवेति । रजनी रात्रिरिति वा । मास इति वा । ऋतुरिति वा मासद्वयम्। अयनमिति वा षण्मासा । इत्येवं कालपरिच्छित्या प्रत्याख्यानम् । केष्वित्याह- भोजनेत्यादि भोजनं च वाहनं च घोटकादि, शयनं च पल्यङ्कादि, स्थानं च पवित्राङ्गरागश्च पवित्रश्चासावङ्गरागश्च कुङ्कुमादिविलेपनम् । उपलक्षणमेतदञ्जनतिलकादीनां पवित्रविशेषणं दोषापनयनार्थं तेनौषधाद्यङ्गरागो निरस्त: । कुसुमानि च तेषु विषयभूतेषु । तया ताम्बूलं च वसनं च वस्त्रं भूषणं च कटकादि मन्मथश्च कामसेवा सङ्गीतं च गीतनृत्यवादित्रत्रयं गीतं च केवलं नृत्यवाद्यरहितं तेषु च विषयेषु अद्येत्यादिरूपं कालपरिच्छित्त्या यत्प्रत्याख्यानं स नियम इति व्याख्यातम् ॥