GP:रत्नकरंड श्रावकाचार - श्लोक 8 - टीका
From जैनकोष
शास्ता आप्त: । शास्ति शिक्षयति । कान् ? सत: अविपर्ययस्तादित्वेन समीचीनान्भव्यान् । किं शास्ति ? हितं स्वर्गादितत्साधनं च सम्यग्दर्शनादिकम् । किमात्मन: किञ्चित्फलमभिलषन्नसौशास्तीत्याह -- अनात्मार्थं न विद्यते आत्मनोऽर्थ: प्रयोजनं यस्मिन्शासनकर्मणि परोपकारमेवासौ तान्शास्ति । परोपकाराय सतां हि चेष्टितम् इत्यभिधानात् । स तथा शास्तीत्येतत्कुतोऽवगतमित्याह विनारागै: यतो लाभ-पूजा-ख्यात्यभिलाषालक्षणपरैर्रागैर्विनाशास्तिततोऽनात्मार्थं शास्तीत्यवसीयते । अस्यैवार्थस्यसमर्थनार्थमाह- ध्वनन्नित्यादि । शिल्पिकरस्पर्शाद्वादककराभि-घातान्मुरजोनदतोध्वनन्किमात्मार्थङ्किञ्चिदपेक्षते ? नैवापेक्षते । अयमर्थ :- यथामुरज: परोपकारार्थमेवविचित्रान्शब्दान्करोतितथासर्वज्ञ: शास्त्रप्रणयनमिति ॥८॥