GP:रत्नकरंड श्रावकाचार - श्लोक 90 - टीका
From जैनकोष
भोगोपभोगपरिमाणं तस्य व्यतिक्रमा अतीचारा: पञ्च कथ्यन्ते । के ते इत्याह विषयेत्यादि- विषय एव विषं प्राणिना दाहसन्तापादिविधायित्वात् तेषु ततोऽनुपेक्षा उपेक्षायास्त्यागस्याभावोऽनुपेक्षा आदर इत्यर्थ: । विषयवेदनाप्रतिकारार्थो हि विषयानुभवस्तस्मात्प्रतीकारे जातेऽपि पुनर्यत्सम्भाषणालिङ्गनाद्यादर: सोऽत्यासक्तिसाधनत्वादनुचार: । अनुस्मृतिस्तदनुभवात्प्रतीकारे जातेऽपि पुनर्विषयाणां सौन्दर्यसुखसाधनत्वादनुस्मरणमत्यासक्तिहेतुत्वादतीचार: । अतिलौल्यमतिगृद्धिस्तत्प्रतीकारजातेऽपि पुन: पुनस्तदनुभवाकाङ्क्षेत्यर्थ: । अतितृषा भाविभोगोपभोगादेरतिगृद्ध्या प्राप्त्याकाङ्क्षा । अत्यनुभवो नियतकालेऽपि यदा भोगोपभोगावनु भवति तदाऽत्यासक्त्यानु भवति न पुनर्वेदनाप्रतीकारतयाऽतोऽतीचार: ॥
इति प्रभाचन्द्रविरचितायां समन्तभद्रस्वामिविरचितोपासकाध्ययनटीकायां तृतीय: परिच्छेद: ॥
शिक्षाव्रताधिकारश्चतुर्थः