GP:रत्नकरंड श्रावकाचार - श्लोक 97 - टीका
From जैनकोष
सामयिकं नाम स्फुटं शंसन्ति प्रतिपादयन्ति । के ते ? सामयिक: समयमागमं विन्दन्ति ये ते सामयिका गणधरदेवादय: । किं तत् ? मुक्तं मोचनं परिहरणं यत् तत् सामयिकम् । केषां मोचनम् ? पञ्चाघानां हिंसादिपञ्चपापानाम् । कथम् ? आसमयमुक्तिवक्ष्यमाणलक्षणसमयमोचनं आ-समन्ताद्व्याप्य गृहीतनियमकालमुक्तिं यावदित्यर्थ: । कथं तेषां मोचनम्? अशेषभावेन सामस्त्येन न पुनर्देशत: । सर्वत्र च अवधे: परभागे च । अनेन देशावकाशिकादस्य भेद: प्रतिपादित: ॥