समयसार - आत्मख्याति टीका - कलश 93
From जैनकोष
( शार्दूलविक्रीडित )
आक्रामन्नविकल्पभावमचलं पक्षैर्नयानां विना
सारो य: समयस्य भाति निभृतैरास्वाद्यमान: स्वयम् ।
विज्ञानैकरस: स एष भगवान्पुण्य: पुराण: पुमान्
ज्ञानं दर्शनमप्ययं किमथवा यत्किञ्चनैकोऽप्ययम् ॥९३॥