ग्रन्थ:रत्नकरंड श्रावकाचार - श्लोक 105
From जैनकोष
साम्प्रतं सामायिकस्यातीचारानाह --
वाक्कायमानसानां दुःप्रणिधानान्यनादरास्मरणे
सामयिकस्यातिगमा व्यज्यन्ते पञ्च भावेन ॥105॥
टीका:
व्यज्यन्ते कथ्यन्ते । के ते ? अतिगमा: अतिचारा । कस्य ? सामयिकस्य । कति ? पञ्च । कथम् ? भावेन परमार्थेन । तथा हि । वाक्कायमानसानां दुष्प्रणिधानमित्येतानि त्रीणि । अनादरोऽनुत्साह: । अस्मरणमनैकाग्र्यम् ॥
सामायिक के अतिचार
वाक्कायमानसानां दुःप्रणिधानान्यनादरास्मरणे
सामयिकस्यातिगमा व्यज्यन्ते पञ्च भावेन ॥105॥
टीकार्थ:
सामायिक के पाँच अतिचार कहते हैं, यथा- मनदुष्प्रणिधान, वचनदुष्प्रणिधान, कायदुष्प्रणिधान इन तीन योगों की खोटी प्रवृत्तिरूप तीन अतिचार और अनादक तथा अस्मरण-एकाग्रता का अभाव ये सब मिलकर सामायिक के पाँच अतिचार हैं ।