समयसार - आत्मख्याति टीका -गाथा 105 - 106
From जैनकोष
जीवम्हि हेदुभूदे बंधस्स दु पस्सिदूण परिणामं ।
जीवेण कदं कम्मं भण्णदि उवयारमेत्तेण ॥१०५॥
जोधेहिं कदे जुद्धे राएण कदं ति जंपदे लोगो ।
ववहारेण तह कदं णाणावरणादि जीवेण ॥१०६॥
जीवे हेतुभूते बन्धस्य तु दृष्ट्वा परिणामम् ।
जीवेन कृतं कर्म भण्यते उपचारमात्रेण ॥१०५॥
योधै: कृते युद्धे राज्ञा कृतमिति जल्पते लोक: ।
व्यवहारेण तथा कृतं ज्ञानावरणादि जीवेन ॥१०६॥
इह खलु पौद्गलिककर्मण: स्वभावादनिमित्तभूतेऽप्यात्मन्यनादेरज्ञानात्तन्निमित्तभूतेनाज्ञान- भावेन परिणमनान्निमित्तीभूते सति सम्पद्यमानत्वात् पौद्गलिकं कर्मात्मना कृतमितिनिर्विकल्प-विज्ञानघनभ्रष्टानां विकल्पपरायणानां परेषामस्ति विकल्प: । स तूपचार एव न तु परमार्थ: ।
कथमिति चेत् यथा युद्धपरिणामेन स्वयं परिणममानै: योधै: कृते युद्धे युद्धपरिणामेन स्वयम-परिणममानस्य राज्ञो राज्ञा किल कृतं युद्धमित्युपचारो, न परमार्थ: ।